________________
द्वितीयं योगस्थानम्
243
माध्यात्मिकं वा बाह्यम्वा इति विस्तरेण पूर्व्ववत् ' ॥
इम उच्यन्ते स्कन्धा : 2 ॥
[4] स्कन्धकौशल्यं कतमत् । य एतान्यथोद्दिष्टाधर्मान्नानात्मकतया च जानाति । बह्वात्मकतया च, न ततः परमुपलभते । विकल्पयति वा । इदमुच्यते समासतः स्कन्धकौशल्यम् ।।
तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूप
(contd. from p. 242 )
यतनवासनापरिभावितं सर्वबीजकमालयविज्ञानं विपाकविज्ञानमादानविज्ञानमपि तत् । तद्वासनाचित्ततामुपादाय ॥ मनः कतमत् । यन्नित्यकालम्मन्यनात्मकमादानविज्ञानमपि चतुभिः क्लेशैः सम्प्रयुक्तमात्मदृष्ट्यात्मस्नेहेनास्मिनानेनाविद्यया च । तच्च सर्व्वत्रगं कुशलेऽप्यकुशलेऽप्यव्याकृतेऽपि स्थापयित्वा मार्गसम्मुखीभावं निरोधसमापत्तिमशैक्षभूमि च यच्च षष्णां विज्ञानानां समनन्तरनिरुद्धं विज्ञानं ॥ विज्ञानं कतमत् । षड् विज्ञानकायाः । ; cp. YBŚ, I.4-10; Vsm., XIV. 81: यं किंचि विजाननलक्खणं सब्बं तं एकतो कत्वा विञ्ञाणक्खन्धो, see also para 82 sq.; cp. also, Ada., p. 54 : कतमो विज्ञानस्कन्धः । नीलपीतलोहितादीन् धर्मान् विविनक्ति विज्ञानं । विज्ञानं हि षड्विधं ।' for an elaborate account of Vijñāna, see, A. K. Chatterjee, The Yogācāra Idealism, pp. 114-207; Vimsika and Trimsika with commentaries.
1. Vide supra, p. 242 and Vbh. quoted therein.
2. cp. Asm., p. 15 : स्कन्धार्थः कतमः । यत्किञ्चिद्रूपम् । अतीतमनागतं । प्रत्युत्पन्नमध्यात्मं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वान्तिके तत्सर्वमभिसंक्षिप्योच्यते रूपस्कन्धः राश्यर्थमुपादाय । यथा वित्तराशिः । एवं यावद्विज्ञानस्कन्धम् ।। अपि च दुःखवैपुल्यलक्षणतामुपादाय स्कन्ध उच्यते । यथा महावृक्षस्कन्धः । यदुक्तं सूत्रे । यथा ऐकान्तिकदुःखसमुदयतः । अपि च संक्लेशतो भारवहनतामुपादाय स्कन्ध उच्यते । यथा स्कन्धेन भारमुद्वहति ।