________________
226
श्रावकभूमौ नष्क्रम्यभूमिः
यदा च प्रवर्त्तन्ते । तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [1] अयमेवं रूपस्तेषां प्र[4]योगः ।
तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च । एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति । य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति । ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं म[5]नसि कुर्खन् रूपस्कन्धमवतरति। या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति । या संजानना[स']संज्ञास्कन्ध इत्यवतरति । या चासौ स्मृतिर्या च चेतना, या च (1) तत्र प्रज्ञा। अयं संस्कार इत्युवतरति । यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति । या तद्बहुलवि[6]हारिता । एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः।
यदा चानेन स्कन्धमानं दृष्टं भवति । परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति ।
कथं च पुनरवतरति । स एवं रूपमन्वेषते, पर्येषते,
1. Added by a separate hand. 2. It seems that after संस्कार, three syllables [स्कन्ध] have
been omitted in the MS. by scribal mistake.