________________
द्वितीयं योगस्थानम्
225
मार्गेणैव) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं प्रवर्त्तमासे आश्वास (से) प्रवृत्ति - ग्र[T]हकं निरुद्धे आश्वासे प्रश्वासशून्यावस्था ग्राहकं, 8B— 9 // प्रवृत्ते प्रश्वासे प्रवृ// [1] तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते । इयता गणनाभूमिसमतिक्रमो भवति ।
नान्यत्राश्वास
पुनस्तदा गणयितव्यं भवति । प्रश्वासालम्बनं चित्तमुपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याचा [भिलक्ष' ]यितव्याव
सान्तराश्वास
प्रश्वासाः
सप्रवृत्तिनिवृत्त्यवस्था: [ 2 ] अयमुच्यते
गणनापरिचयः |
स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषामेतद् व्याक्षेपस्थानं भवति । चित्तस्थित चित्तनिरतये [1] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति ।
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पु[ 3 ] नर्गणनाप्रयोगेण प्रिया रोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति । न च तेनाभिरमन्ते [1]ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते । यथा च प्रवर्त्तन्ते,
1. Letters damaged by pin-hold.