________________
216
श्रावकभूमौ नष्क्रम्यभूमिः
तत्राध्यात्मिको वायुधातुः । यदप्यध्यात्म प्रत्यात्म वायुह्ययुगतं । लघुत्वं समुदीरणत्वमुपगतमुपादत्तं । स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः । [7] कुक्षिशया वायवः । पृष्ति (ष्ठि) शया वायवः । वाय्वष्ठीला (वाताष्ठीला')
वायवः । क्षुरकपिप्पलकशस्त्रका वायवः । आश्वास8A-8// प्रश्वासा वायवः । अंगप्रत्यं||[1][गानुसारिणोवायवः]
बाह्यो वायुधातुः कतमः। यद्वाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वं । अनु (उ) पगतमनु (मु)पादत्तं [1]सन्ति बहिर्धा पूर्वा व[]यवो, दक्षिणा व[7]यवः । उत्तरा व[]यवः पश्चिमा व[]यवः । सरजसो वायवः, अरजसो वायवः, [परीत्ता'] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायु[2]मण्डलकवायवः [1] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति । कुड्याग्रानपि पातयति। पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो निग (निर्ग)च्छति। ये सत्त्वाश्चीवरकणिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा। इति वायुरन्योप्येवंभागीय[: ॥]
1. See Ss, pp. 133-9. 2. Side of the MS. leaf overlapped by another leaf,
letters illegible. 3. Letters damaged by pin-hold, reconstructed by us.