________________
214
श्रावभूमी नैष्क्रम्यभूमिः
वा, नद्यो वा, प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्यो धातुः ।।
जोधातुः कतमः । तेजोधातुद्विविधः आध्यात्मिको बाह्यश्च' ।।
तत्राध्यात्मिकस्तेजोधातुः कतमः । यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा] [4] ऊष्म (T) गतमुपगतमुपादत्तं । तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते । संतप्यते, परितप्यते । येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वात् जारितो जारित इति संख्यां गच्छति ॥
बाह्यस्तेजोधातुः कतमः । यद्वाह्यं तेजस्तेतमू (म) गतमनु (मु ) [ 5 ] पगतमनु (मु) पादसं । 1. cf. M. N., III. 325 sq. : कतमा च, भिक्खु, तेजोधातु ? तेजोधातु सिया अज्झत्तिका सिया बाहिरा । कतमा च अज्झत्तिका तेजोधातु यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, सेय्यथीदं — येन च सन्तप्पति येन च जीयति, येन च परिजय्हति येन च असितपीतखायितसायितं सम्मा परिणाम गच्छति, यं वा पनञ्ञं पि किञ्चि अज्झत्तं पच्चत्तं, तेजोगतं उपादिन्नं —अयं वुच्चति अज्झत्तिका, तेजोधातु । या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु तेजोधातुरेवेसा । ss, P. 132 sq. : आध्यात्मिकस्तेजोधातुः कतमः ? यत्किचिदस्मिन् काये तेजस्तेजोगतमूष्मगतमुपात्तम् । तत्पुनः कतमत् ? येनायं काय आतप्यते सन्तप्यते । येन वास्य अशितपीतखादितानि सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वाज्ज्वरितो ज्वरित इति संख्यां गच्छति । · · · · बाह्यस्तेजोधातुः कतमः ? यद्बाहथं तेजस्तेजोगतमूष्मगतमुपगतमुपात्तम् । तत् पुनः कतमत् ? यन्मनुष्या अरणीसहगतेभ्यो गर्भलसहगतेभ्यो वा गोमयचूर्णेन वा कार्पासपिचुना वा समन्वेषते । यदुत्पन्नं ग्राममपि दहति, ग्रामप्रदेशमपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैतीत्यादि ।; PVŚ, p. 2 : तेजोधातुः कतमः । उष्णता ।; AKB, I.12,