________________
208
श्रावकभूमौ नष्क्रम्यभूमिः
समाहितभूमिकः । तत्र [7] योयं मित्रपक्षः । अमित्रपक्ष उदासीनपक्षश्च [1] इदमालम्बनं । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (1) यच्चालम्बनं । यश्वालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते ।'
तत्र यत्तावदाह मैत्रीसहगतेन चित्तनेत्यनेन त्रिषु 8A-7// पक्षेषु मित्रपक्षे, अ//[1] मित्र पक्षे, उदासीनपक्षे
हितध्याशय आख्यातः ।
यत्पुनराह। अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातं ।
तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता (:)। असमर्थतया अव्याबाधत [या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता। अप
1. Letters damaged by pin-hold, illegible. 2. cp. Vbh. pp. 332-3 : इध भिक्खु यस्मि समये रूपूपपत्तिया मग्गं भावेति
विविच्चेव कामेहि · · · · पठमं ज्ञानं ... दुतियं... ततियं . . . 'चतुत्थं ज्ञानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मि समये मेत्ति मेत्तायना मेत्तयितत्तं मेत्ताचेतोविमुत्ति-अयं वुच्चति मेत्ता।; अद्वेषस्वभावा मैत्री, Adv., p. 427; मंत्री कतमा । ध्यानं निश्रित्य सत्त्वाः सुखेन सम्प्रयुज्येरनिति विहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः। Asm., p. 94; cp. Bodhi, p. 166.3-9; Ada., p. 99 : तदिदं चित्तं त्रिविधं भवति । आद्यं स्वजनेभ्यो मध्यमं परेभ्यश्चरमं शत्रुतस्करादिभ्यः । समाहितो भावयति सर्वे त्रिधातुसत्त्वाः वयं शश्वाद्याश्च न भिन्ना इति । विजहात्यान्तरिकद्वेषमिति मैत्री नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्व संस्कारसंप्रयुक्तमिति मैत्र्यप्रमाणं ।; for details, see AKB, VIII. 29 sq.; Adv., pp. 427-8; Vsm., IX.1-90; Psm., pp. 379-91.