________________
201
द्वितीयं योगस्थानम् . 201 तत्र यत्तावदाह ॥ निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता ।। यत्पुनराह । सर्वभूतार्थवेदक इति । अनेन वस्तुपर्यन्तता आख्याता ॥ [4]यत्पुनराह । बिम्बध्यायी साततिकः । इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम् । यत्पुनराह । पारिशुद्धि विगच्छतीत्यनेन कार्य[परि']निष्पत्तिराख्याता ॥ पुनरपि चोक्तं भगवता ॥
चित्तनिमित्तस्य कोविदः प्रविवेकस्य (प्राविवेक्यस्य?)च विदन्ते रसं ।
ध्यायी निपकः प्रतिस्मृतो
भुंक्ते प्रीतिसुखं निरामिषं [1] [5] तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब [ ] निमित्तशब्देनाख्यातं । वस्तुपपर्यन्तता कोविदशब्देन । यत्पुनराह । प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत्पुनराह । ध्यायी निपक[:] प्रति[6] स्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् ।। यत्पुनराह । भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता ।। तदेवं सत्येतद्
1. A separate hand adds this. 2. Original source of this gāthā is also not traceable.