________________
श्रावभूमौ नैष्क्रम्यभूमिः
भिक्षुर्योगी योगाचा' ] रः । सम्यगेवालम्बने चित्तमुपनिबध्नाति । कथं च, रेवत, भिक्षुर्योगी योगाचार [ : ] अनिराकृतध्यासी (यी) भवति । स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान [ : ] सातत्यप्रयोगी 8B-5 / / च भवति । // [1] सत्कृत्यप्रयोगी च । कालेन च कालं शमथनिमित्तं भावयति । प्रग्रहनिमित्तमुपेक्षानिमित्तमासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रन्धेराश्रयपरिशुद्धिमनुप्राप्नोति । स्पर्शयति ( स्पृशति ) । साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धि, रागविरागाच्चित्त[2] परिशुद्धिमविद्या [वि] रागात् ( 1 ) ज्ञानपरिशुद्धिमधिगच्छति । स्पर्शयति ( स्पृशति ), साक्षात्करोति । एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति । यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं
200
भवति ।
॥ तत्र गाथा ||
निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः ।
बिम्बध्यायी साततिक: पारिशुद्धिं विगच्छति ॥ ३
1. Added by a separate hand in a footnote, letters dim
and faint.
2. MS. omits this.
3. Original source of this gāthā is untraced.