________________
द्वितीयं योगस्थानम्
199
हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्वा [4] वैराग्यं कर्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्तुकामः । रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबध्नाति । सर्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये (षु')समु[5]दयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबध्नाति । एवं हि, रेवत, भिक्षुर्योगी योगाचारः । अनुरूपे आलम्बने चित्तमुपनिबघ्नाति । इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तु- . कामो भवति, प्रचेत्तुकामः । परिवितर्कयितु[6] कामः । परिमीमान्स (मांस)यितुकामः। तच्च तेन पूर्वमेव दृष्टम्वा भवति । श्रुतम्वा । मतम्वा । विज्ञातम्वा[i]स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपति कृत्वा, समाहितभूमिकेन मनस्कारेण मनसिकरोति । विकल्पयत्यधिमुच्यते । स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्प[7]द्यते। तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा यदालम्बनमयं भिक्षुर्योगी योगाचा[8] रः सम्यगेवालम्बने चित्तमुपनिबध्नाति । स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या) वद् (ज्) ज्ञेयं ज्ञातव्यं भवति ।
तच्च यथाभूत [मविपरीतचित्तं (त) मेवं हि, रेवत, 1. This may be deleted.