________________
198
श्रावकभूमौ नष्क्रम्यभूमिः
मप्राक्षीत् । कियता, भदन्त, भिक्षुर्योगा[(गी)योगा']चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति । कथं पुनरालम्बन (ने) चित्तमुपनिबद्धं सूपनिबद्धं भवति । साधु, साधु, रेवत, साधु खलु त्वं रेवत । एतमर्थं पृच्छति (सि) । तेन हि श्रृणु
च, साधु च, मनसि कुरु, भाषिष्ये [1] इह, रेवत, 8A-5// भिक्षुर्योगी यो//[1]गाचार: चरितम्वा विशोधयितु
कामः, कौशल्यम्वा कर्तुकामः । आस्रवेभ्यो वा चित्तं विमोचयितुकामः । अनुरूपे चालम्बने चित्तमुपनिबध्नाति । प्रतिरूपे च सम्यगेव चोपनिबध्नाति । तत्र चानिराकृतध्यायी भवति। ___ कथमनुरूपे आलम्बने चित्तमुपनिबध्नाति । [स चे] नेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, [2]स न शुभालम्बने चित्तमुपनिबध्नाति । एवमनुरूपे आलम्बने चित्तमुपनिबध्नाति । द्वेषचरितो वा पुनर्मंत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे । स चेद्रेवत, स भिक्षुर्योगी योगाचारे[T] वितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबध्नाति । एवं सोनुरूपे आलम्बने [3] चित्तमुपनिबध्नाति । स चेत्स, रेवत, भिक्षुः संस्काराणां
स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबध्नाति । 1. MS. omits योगी. 2. Letters damaged by pin-hold.