________________
द्वितीयं योगस्थानम्
185
- तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि । इह रागचरितः पुद्गल: परीत्ते सर्वनिहीने रंजनीये वस्तुनि । [4]घनमधिमात्रं रागपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्यप्रणीते [1] तच्च पुन [T] रागपर्यवस्थानं संतत्या चिरकालमवस्थापयति । दीर्घकालमनुबद्धो भवति (1) तेन पर्यवस्थानेन, रंजनीयर्धर्मरभिभूयते। नो तु शक्तो[अ] तिरंजनीयान्धर्मानभिभवितुं [1] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः । कर्कशेन्द्रियः, अपरुद्धेन्द्रियः । नात्यर्थं परेषां[5] विहेठनजातीयो यदुत कायेन, वाचा दुविवेज्यश्च भवति, दुःसंवेज्यश्च । हीनाधिमुक्तिकश्च भवति । दृढकर्मान्तः । स्थिरकर्मान्त: । दृढव्रतः । स्थिरव्रतः । महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यंबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः, स्मितपूर्वंगम इत्येवंभागीयानि रागचारि[6]तस्य पुद्गलस्य लिंगानि वेदितव्यानि । - द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि। इह द्वेषचरितः पुद्गलः । द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन धनं, प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति । कः पुनर्बादो मध्य[]धिमात्रे (ण) [1] तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । चिरकालमनुबद्धो भवति । प्र[7] तिघपर्यवस्थानेन । स द्वेषणीयैर्धमैरभिभूयते । नो तु द्वेषणीयान्धर्मान्छक्नो