________________
184
श्रावकभूमौ नष्क्रम्यभूमिः
पुद्गलव्यवस्थानं कतमत् ।' एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैरेकादशभिस्तद्यथाइन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन । समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि[2]प्रभेदेनावरणप्रभेदेन च ॥
इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियस्ती (यती)क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानं ॥
निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानं । भिक्षु[]भिक्षुणी, शिक्षमाणा[श्रामणेरः] श्रामणेरी उपासक उपासिका च ॥ . तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं । योयं रागोन्मदः पुद्गलः स रागचरितः [1] यो द्वेषोन्मदः स द्वेषच[3]रितः। यो मोहोन्मदः स मोहचरितः । यो मानोन्मदः स मानचरितः ।। यो वितर्कोन्मदः स वितर्कचरितः। यः समप्राप्तः समभागचरितः । यो मन्दरजस्क: सो[मन्दचरितो'] वेदितव्यः ।
1. In the Asm. (p. 86), Asafiga enumerates only seven
kinds of pudgalavyavasthāna, i.e., according to रोगचरितप्रभेद, निर्याणप्रभेद, आधारप्रभेद, प्रयोगप्रभेद, फलप्रभेद, धातुप्रभेद and
चर्याप्रभेद. 2. Added by a separate hand in a footnote. 3. See, Asm., pp. 86-7.