________________
180
श्रावकभूमौ नष्क्रम्यभूमिः
[7] निवर्तयत्यभिनिर्वृत्तेः समकाला (कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु
येनोपपत्तिभवस्तेनास्याप्युपरतो भवति । तद्यथा अशु8B-1// भानाम्वा //[1] अयःस्थालानाम्वा, दीप्ताग्निसं
प्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं)परिनिर्वाति । तृतीयोन्तरापरिनिर्वायि (यी)पुद्गलः अन्तराभवमभिनिर्वर्त्य येनोपपत्ति भवस्तेनोपनमति। उपनतश्च पुनरनुपपन्न एव परिनिर्वाति । तद्यथा। अयस्प्रपाटिका उत्पत्य पृथिव्याम् । अपतित्वम[2]भिनिर्वाति। त इमे त्रयोऽन्तराभवपरिनिर्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्वायी पुद्गल इत्युच्यते। .
उपपद्यपरिनिर्वायी पुद्गलः कतमः'। य उपपन्नमात्र एव परिनिर्वाति ॥
अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्ग संमुखीकृत्य
1. cp. उपपद्यपरिनिर्वायी कतमः । उभयसंयोजने अप्रहीणे रूपधातावुपपन्नमात्र एव
यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति ।, Asm., p. 90; AKV, III, p. 24 : ..''उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां सङ्गीतिमनुप्रविश्य परिनिर्वातीति । प्रकर्षयोगादुत्पत्त्यर्थो भवतीत्यभिप्रायः ।' ' ' 'आयुषो बहु क्षयित्वा परिनिर्वातीति ।, see also, p. 23 : पञ्चानामवरभागीयानां संयोजनानां प्रहाणादुपपद्यपरिनिर्वायी भवति; there are three kinds of Upapadyaparinirvāyī-pudgala, see AKV, p. 563; AKB, VI.37 : उपपद्यपरिनिर्वायी य उपपन्नमात्रो न चिरात् परिनिर्वात्यभियुक्तवाहिमार्गत्वात् ।