________________
134
श्रावकभूमौ नष्क्रम्यभूमिः
रानुलोमिकरानुच्छविकरौप[T]यि[5]कः, प्रतिरूपः, प्रदक्षिणेनिपकस्यांगसंभारेस्तां च पुन: कथां कालेन करोति । सत्कृत्यानुसन्धिमनुपतितं[] । हर्षयन्, रोचयन्ननु (यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्णा, यथाधार्मिकी, यथापर्षन्मत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः । अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति । न परा[6]न्पंस (पंस)यत्येवं धर्मदेशको भवति । ____ यश्चैभिरष्टाभि (:') (समन्वागतो') रंगः समन्वागतो भवति । एवं च कालेन कालं चोदको भवति, स्मारकः । अववादानुशासकस्तस्मात् कल्याणमित्र[म्]इत्युच्यते । अयं तावत् कल्याणमित्रताया विस्तरविभागः [1]
__समासार्थः पुन: कतमः [1] स चेदयं मित्रसुहृदनु7A-2|| कम्पक: आदित ||[1] एव हितकामो भवति । सुख
कामश्च [1]तच्च पुनहितसुखं यथाभूतं प्रजानाति । अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः । यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्ध
वीर्यजातीयः । यदुत तमेव हितसुखोपसंहारमारभ्य[1] 1. May be deleted. 2. See Bodhi, pp. 163-5; cf., p. 109; 5s, pp. 26, 23; GV,
pp. 76, 99, 462-4; ASPP, pp. 243-4, cf., p. 197 sq. 3. On उपायकौशल्य, see, SRS, उपायकौशल्यपरिवर्त; MSA.