________________
नष्क्रम्पभूमिः
133
[ता प्र]तीत्यसमुत्पादानुलोमान् (मां) कथां करोति । एवमववादको भव[2]ति । ____कथमनुशासको भवति। धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति । उपाध्यायो वा, सहधार्मिको वा, गुरुर्खा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा। कालेन कालमवसादयति । दण्डकर्मम (1) नुप्रयच्छति । प्रणामयति चैनं । पुनरपि च धर्मेण समये[3]प्रतिसंस्तरसामीचीसंज्ञप्ति प्रतिगृह - णाति । संरोहकश्च भवति । करणीये चाकरणीये भाव्या'चारानध्याचारान् अध्याचीणे (चरिते) अनध्याचीणे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति । ___ कथं च धर्मदेशको भवति। कालेन कालं पूर्वकालकरणीयां कथां करोति । तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव[4]निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति । कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति । दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय ?)वा, सत्व (त्त्व)व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तः पदव्यंजनैः, सहित
1. Letters lost by pin-hold. 2. Letter indistinct.