________________
106
श्रावकभूमौ नष्क्रम्यभूमिः
सिंहस्य प्राणिनः साधर्म्यण [1] किं पुनरत्र साधर्म्य [1]सिंहः प्राणं (प्राणी) सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः । भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति । विक्रान्त, उत्साही, दृढपराक्रमः । अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेत[3] शय्या, देवशय्या, न का[म'] भोगशय्या। तथा हि ते सर्व एव कुसीदा, हीनवीर्या, च (म)न्दबलपराक्रमाः । अपि तु धर्मतैषा यदक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो. भवति । न च शयानस्य स्मृतिसंप्रमोषो भवति । न च गाढं स्वपिति । पापकांश्च स्वप्नां (प्नान्) न पश्यति । अन्यथा तु शय्यां कल्पय[4]तो विपर्ययेण सर्वे दोषा वेदितव्याः । तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति । __ आलोकनिमित्तमनेन सूद्गृहीतं भवति । सुमनसिकृतं । सुजुष्टं, सुप्रतिविद्धं । यदेव मनसि कुर्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति । सुप्तस्यापि चास्य येन न भवति चेतसः (1) अन्धकारायितत्वमेवमालोकसंज्ञी[5]शय्यां कल्पयति । __कथं स्मृत[:]शय्यां कल्पयति । य (ये) अनेन
धर्मा[:]श्रुता भवन्ति । चिन्तिता, भाविता वा, 1. A separate hand adds this.