________________
नष्क्रम्यभूमिः . . 105 समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते । एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, [7] विज्ञा अपि, सब्रह्मचारिणो[अ]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं । शास्ता मे अपवदेद्, देवता अपि । विज्ञा अपि, सब्रह्मचारिणो[अ]धर्मत[8]या विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति । एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चा
नुवृत्तो भविष्यतीति यावद्रात्या: प्रथमे यामे चंक्रम6B–4// //[1]निषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशो
धयति । आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिविहारस्य पादौ प्रक्षालयति । प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति । यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानां उपचयाय[1]उपचितो[अ] यं काय: · कर्मण्यतरश्च भविष्यति । अनुकूलतरश्च सातत्येनै [क']पक्ष्ये कुशलपक्षप्रयोगे ।
केन[2] कारणेन पार्श्वन शय्यां कल्पयति । 1. MS. omits this, added by us. 2. Wayman adds दक्षिणेन, ibid, p. 72. 3. Buddhaghosa distinguishes between four sayyas, काम
भोगीसेय्या, पेतसेय्या, सीहसेय्या and तथागतसेय्या, vide SVA, p. 348.