________________
104
श्रावभूमौ नैष्क्रम्यभूमिः
मारभ्य तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्व्ववत् ।
विचिकित्सायाम्वक्तव्यं । ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्व्ववदित्यनेन कामछ (च्छ ) न्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्य कौ कृत्य विचिकित्सानिव रणा [च्] [4] चित्तं विशोधितं भवति । तदाहारकेभ्यश्च. धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणी-' येभ्यो धर्मेभ्यश्चित्तं परिशोधयति ।
या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [1] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त [5] परिशोधना [ i ]
आत्माधिपतेया कतमा । यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते ( ति ) । प्रजहाति, विनोदयति, व्यन्तीकरोति । तेन निवरनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण विघातपक्ष्येणै [6]वमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति ।
कथं लोकमधिपति कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्या (स्य) निवरणे