________________
102
श्रावकभूमौ नैष्क्रम्यभूमिः
कामालयं, कामनियन्ति, कामाध्यव[3]सानं विगर्हन्ति, विवर्णयन्ति । विजुगुप्सयन्ति । कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति । वर्णयन्ति, प्रशन्स (शंस)यन्ति । तां (तान्) धर्मांस्तथा निषण्णो[अ]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते । उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति ।
तत्र व्यापादे अयम्विशेषः । तथा निषण्णो[4]मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां • दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-) सम्पद्य विहरति । तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तियक्सर्वमनन्तं लोकं स्मारित्वा (स्मृत्वा) उपसम्पद्य विहरति । शेषं पूर्ववत् ।
तत्रौद्धत्यकौकृत्ये विशेषः । तद्य[5]था निषण्ण[1]अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । सम्विषोदयति (संविशोधयति)। एकोतीकरोति । समाधत्ते । शेषं पूर्ववत् ।
तत्र विचिकित्सानिवरणे विशेषः । तथा सन्निषण्णः । अतीतमध्वानं नायोनिशो मनसिकरोति । अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति । किं न्वहमभूवमतीते[अ]ध्वनि को[6]न्वहमभूवं । आहोस्विन्नाहमतीते[अ]ध्वनि को न्वहमभूवं । कथं