________________
नष्क्रम्यभूमिः
स्पर्शवि[हार']ता चेति। एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति । ____ कथं च पुनजिघत्सोपरतये आहरति[1] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां प[2] रिभुंक्ते। यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते । सायाह्नसमये वा, अभि(ति?) क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये[1] एवं जिघत्सोपरतये आहरति ।
कथं ब्रह्मचर्यानुग्रहायारति। तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति । येनास्य कुशलपक्षे[3]प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति । कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते । अल्पकृच्छ्रे णाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनह (ह्य)ति । येनायं भव्यो भवति । प्रतिबलश्च । क्षिप्रमेवाप्राप्तस्य प्रा[4]प्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । एवं ब्रह्मचर्यानुग्रहायाहरति ।।
कथं पौराणां वेदनां प्रहास्यामीत्याहरति ।
1. Letters damaged by pin-hold. 2. Buddhaghosa gives a brief description of these aspects
of आहार-concept of the theravadins in AS, V. 136-9, pp. 318-9.