SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रावकभूमौ नष्क्रम्यभूमिः तथापि तदतीतमध्वानमुपादाय। अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति । तद्य[5]था कण्डू[:], कुष्ट[:], किटिभ[:] किलास इति विस्तरेण पूर्ववत् । तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीवाः, खराः, कटुका, अमनापा (अमन आपा)[:1] तस्याबाधस्योपशमाय तासां च तन्निदानानां दु:खानां वेदनानामुपशमाय हितं पश्यमनु (पथ्यमनु) कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [1] [6]सांप्रेयं चाहारमाहरति । येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति । स वर्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते। अपथ्य 6B-1// //[1]ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत। अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत । . तद्यथा कण्डू[:], कुष्ट[:], किटिभ[:], किलास इति विस्तरेण पूर्ववत् । यन्निदाना' उत्पद्येरन्छा (ञ्छा) रीरिका वेदना[:] पूर्ववत् । एवं च नवां वेदनां नोत्पा[2] दयिष्यामीत्याहरति । 1. A separate hand adds this.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy