________________
नष्क्रम्यभूमिः
55 एषा चर्या । तस्मात् सुचरितमित्युच्यते ॥
केन कारणेन शीलं सम्वरशब्देनोच्यते। निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः । तस्मात् सम्वर[7] शब्देनोच्यते। अस्य खलु शीलसम्वरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तं [1] कतमा त्रिविधा [1] यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्म
प्रत्यवेक्षा, मनःकर्मप्रत्यवेक्षा। 2A-1// . //[1][तत्र च पुनरेतानि'] कर्माणि प्रत्यवेक्ष
· माण[:]शीलसम्वरं परिशोधयति । यत्कर्म कायेन
प्रणिहितं भवति कत्तु तदेव प्रत्यवेक्षते । किन्नु व्याबाधिकं मे एतत् कार्य कर्म आत्मना
अन्तरायः 1A-7|| ||[1] परेषा[मकु] शलं दुःखोदयं दु:खविपाक
.. माहोस्विंदव्याबाधिक मे एतत् कायकर्मात्मनः परेषां कुशलं सुखोदयं सुखविपाकं स चेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कायकर्मात्मनो वा, परस्य वा अकुशलं [ रागोदयं, रागविपाकं, स चेत्स एवं प्रत्यवेक्षमाणो न च][2]रति । तत्कर्म न करोति । नानुप्रयच्छति । स चेत्पुनर्जानात्यव्याबाधिकं मे एतत् कायकर्म कुशलं पूर्ववत स करोति । तत् कायेन कर्म
1. MS. erazed. 2. Letters damaged by pin-hold. 3. MS. leaf folded, portion reconstructed by us.