________________
54
श्रावकभूमौ नष्क्रम्यभूमिः
प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रांवृतानि शोभामात्रां जनयन्ति । न त्वेवं पुनर्जीर्णस्य, वृ[3]द्धस्य, महल्लस्याशीतिकस्य वा, नावतिकस्य वा, शण्डदन्तस्य, पलितशिरसो, नान्यत्र तैविभूषणैः प्रावृतः स विडम्बित इव ख्याति । आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते । शीलं पुन: सर्वेषां सर्वकालञ्च शोभाकारं भवति । तस्मादलंकारशब्देनोच्यते ॥
केन कारणेन[4]शीलमनुलेपनशब्देनोक्तम् । तत्र बहुकुशलमनवद्यं शीलसमादानं . सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहं अपनयति । धर्माभितप्तस्य उत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा अनेन कारणेन शीलमनुलेपनशब्देनोच्यते ॥
केन कार[5]णेन शीलं गन्धजातशब्देनोच्यते । शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याण: (णं) कीत्तियशः शब्दश्लोको निश्चरति । विविधानाम्वा मूलगन्धजातानां, सारगन्धजातानाम्वा, पुष्पगन्धानाम्वातेरितानां दिग्विदिक्षु मन आपो गन्धो निश्चरति । अनेन कारणेन शीलं गन्धजातशब्देनो
च्यते ॥
केन का[6]रणेन शीलं सुचरितशब्देनोच्यते । सुखगामिनी एषा चर्या स्वर्गगामिनी सुगतिगामिनी।