________________
नष्क्रम्यभूमिः . . 53 दृष्टे धर्मे अभिसंपराये च एवं वाक्सुचरितस्य [1] क्वचित्सम्वरशब्देनोक्तम् । यवाह । दाता दानपतिः शीलवान् [7] भवति । सम्वरस्थायी आगमदृष्टि: फलदर्शी । अपिचोक्तं । शीलवान् विहरति । प्रातिमोक्षसम्वरसंवृत इति विस्तरः ।'
___ केन कारणेन भगवता शीलं मूलशब्देनोक्तम् । 1B-10|| ||[1] प्रतिष्ठार्थं आधारार्थो मूलार्थः । तच्चतच्छीलं
सर्वेषामेव लौकिकलोकोत्तराणां [शुद्धाना'] मनवद्यानामग्र्याणां प्रवराणां सुखाहाराणां, प्रतिष्ठास्थानीयं चोत्पत्तये, प्रतिलभाय तस्मान्मूलशब्देनोच्यते । तद्यथा पृथिवी प्रतिष्ठा भवत्याधार[स्तृणगु] ल्मौषधिवनस्पतीनामुत्पत्तये' एवमेव शीलम्बिस्तरेण पूर्ववद्वाच्यम् । __[2] केन कारणेन शीलमलंकारशब्देनाख्यातं । आह । यानि तदन्यानि भूषणानि तद्यया हर्षम्वा, कटाहा वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा तानि यावदयं दह्रो भवति । शिशु[:] कृष्णकेशः
1. cf. इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति
आचारगोचरसम्पन्नो' . . . A. N. I.226, 227, 228; Mn. p. 423
etc. . 2. Letters damaged by pin-hold. 4. See Satapatha Br., VI.1.1; X.6.1.4; I.9.1.29, I.9.3.11;
III.9.3.2; Kau. Br., IX.4; XIV.3; A. B. VIII.1.; JUB, I.10.2; III.20.8. GBU, VI.2 and elsewhere.