________________
56
श्रावभूमौ नष्क्रम्यभूमिः
न प्रतिसंहरति, अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते किन्तु व्याबाधिकं मे एतत् पूर्व्ववत् । स विज्ञानां सब्रह्मचारिणां सचेत् स ए[वं ' ] प्रत्यवेक्षमाणो [2 जानाति व्याबाधिकं ] [ 3 ] मे एतत् कर्म्म पूर्व्ववत् । सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिसंहरति । अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते [1] किन्नु व्याबाधिकं मे एतत् पूर्व्ववत् । सविज्ञानां सब्रह्मचारिणा [मन्तिके'] सचेत् स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत् कर्म पूर्व्ववत् [1] [4] स विज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्म प्रतिकरोति । स चेत् पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत् कायकर्म पूर्व्ववत् [ 1 ] स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलम्विहरत्येवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति । सुविशोधितं च । यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु [1] यथा का [ 5 ]यकर्म एवं वाक्कर्म वेदितव्यं । अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः । अनागतान् प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः । तन्मनो [ अ ] भीक्ष्णं प्रत्यवेक्षते [i] किन्नु व्याबाधिकं मे एतन्मनः पूर्व्ववत् ।
1. Omitted in the MS., added by us.
2. MS. leaf folded, portion reconstructed by us.