________________
नैष्क्रम्यभूमिः
भविष्यतीति । सर्वं च शीलमितो बाह्यानां सुरक्ष( क्षि ) तमपि सुविशुद्धमपि तदुपमया विशुद्ध्या अनैर्याणिकमित्युच्यते । एवमनैर्याणिकं भवति ।
।
कथं समादानपरिभ्रष्टं भवति । यथापीहैकत्यः सर्व्वेण सर्व्वमलज्जी भ [ 3 ] भवति निरपेक्षः । श्रामण्ये स च भवति । दुःशीलः पापधर्मा' अन्तः पूतिरवस्रुतः कशम्बोदकजातः । शंखस्वरसमाचारः । अश्रमण [ : ] श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञ एवं समादानपरिभ्रष्टं भवति ।
51
एभिर्दशभिः कारणैर्विपन्न ( नं ) शीलं शीलविपत्तिरित्युक्ता भगवता 2 [ । ]
अपिच शीलाभ्यसन [4] मप्युक्तं भगवता [ 1 ] द(त) च्च एभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यम् । या चानैर्याणिकता, यश्च समादानभ्रंशः तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या ।
एषामेव च कृष्णपक्षव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यः कारणैः शोलसम्पत्तिर्वेदितव्या । शील
1. See S Ś, p. 41 sq., Abd., p. 132 sq.
2. See D. N. I.68, II.69; A. N., I. 249, II.491; Vbh., p. 431; Pug., p. 35.
3. Asanga says: तत्र विशुद्ध शीलं बोधिसत्त्वस्य कतमत् । तद्दशविधं वेदितव्यं । आदित एव सुगृहीतं भवति श्रामण्यसंबोधिकामतया न जीविकानिमित्तम् । नातिलीनं भवति व्यतिक्रमे मन्दकौकृत्यापगतत्वात् । नातिसृतं भवत्यस्थानकौकृत्यापगतत्वात् । कौसीद्यापगतं भवति निद्रासुखपार्श्वसुखशयनसुखास्वीकरणतया रात्रिंदिवं कुशलपक्षाभियोगाच्च । अप्रमादपरिगृहीतं भवति । ( contd. on p. 52 )