SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 500 श्रावकभूमी नैष्क्रम्यभूमिः कामसुखल्लिकानुयुक्तो भवत्यध्यवसिततांपरः । प्रतिलब्धान्धर्मेण वा अधर्मेण वा चीवरपिण्डपातशय [6]नासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङक्ते । आदीनवादी निःसरणमप्रजानन्नयमुच्यते एको [अ]न्तः। पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति, सन्तापयति । [7]कष्टव्रतसमादायी च भवति। तद्यथा कण्टकापाश्रयो वा भवति । भस्मादायी मुसलापाश्रयः । फलकापाश्रयो 1A-10|| भवति । उत्कुहकस्थितो भवत्युत्कुहकप्र|| [1]हाण योगमनुयुक्तः [1] अग्निपरिचारको भवति । यावत् त्रिरप्यग्नि परिच [रति'] उदकमध्याहारो भवति । यावत् त्रिरप्युदकमध्याव (व)हति । एकपादक: स्थित्वा यतः सूर्यस्ततः परिवर्तते । इति यो वा पुनरप्येवंभागीय आत्मकक्लमथानुयोगः अयमुच्यते. द्वितीयो [अ]न्तः। ए[वमन्त'] द्वयपतितं भवति । कथमनर्याणिकं भवति । यथापीहै [2] कत्यः शीलं वा व्रतम्वा दृष्ट्या परामृशति। अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति । मुक्तिनिर्याणं 1. Letters damaged by pin-hold. ... 2. cf. S. N. IV.360: द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा । कतमे द्वे ? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्यसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो। एते खो, भिक्खवे, उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा. . . '; cf. also, ibid, II.17.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy