________________
श्रावकभूमी नैष्क्रम्यभूमिः
जीविकाभयभीतो वा, न श्रामण्याय, [7] न ब्राह्म
ण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणाय1B-8|| वमादित [:1] //[6] दुःगृहीतो (दुर्गृहीतं) भवति ।
___ कथमतिलीनो (नं) भवति । यथापीहैकत्यः अलज्जी भवति मन्दकीकृत्यः । शैथिलिकः शिथिलकारी शिक्षोपदिष्टे [अ]यमतिलीनो (नं) भ[7]वति ॥ ___कथमतिसृतो (तं) भवति। यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकीकृत्यः । सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः [1] अस्थाने परेषामन्तिके परिभवचित्तं वा आख्यातं वोत्पादयति । प्रवेदयत्येव
मतिसृतं [भवति'] । 1A-9|| ||[1]कथं प्रमादकौसीधपरिगृहीतं भवति । यथा
पीहैकत्यो [अ]तीतमध्वानमुपादायापत्तिमापन्नः [1] सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्म प्रतिकृता भवति । यथा अतीतमध्वानमुपादाय एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति । सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्म [2]प्रतिकृता भवति । न च पूर्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते । यन्वहं तथा तथा चरेयं, यथा यथा चरन् विहरंश्चापत्ति नाध्यापद्येय, तथा च, तथा चरति, विहरति । यथापत्तिमध्यापद्यते । सो[अ] नेन
1. A separate hand adds this. 2. Letter lost by pin-hold.