________________
44
श्रावकभूमौ नष्क्रम्यभूमिः
वा भवत्यप्राप्तस्य प्राप्तस्य प्राप्तये पूर्व [व] दनेन कारणेना[2]ध्यात्माधिपतेयो (अ)यं शीलसम्वरस्य गुणानुशंस इत्युच्यते ॥
अपर: पुन: पर्यायः [1] समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शोलभावना च [1] तत्र यत्तावदाह । शीलवान्विहरतीत्यनेन समादत्तशीलता[ss]ख्याता। . यत् पुनराह । प्रातिमोलसम्वरसंवृत इत्यनेन नै[3]र्याणिकशीलता आख्याता[1] तथा हि प्रातिमोक्षसम्वरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते । अधिशीलं च शिक्षा निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च शिक्षा भावयत्येवमसौ सर्वदुःखक्षयाय । निर्यातो भवति । यदुताधिशीलं प्रतिष्ठाय पूवंगमं कृत्वा तस्मात् प्रातिमोक्षसंवरो नैर्याणि[4] के शीलमित्युच्यते । यत्पुनराह । आचारगोचरसम्पन्नः अणुमानेष्ववद्येषु भयदर्शी . समादाय शिक्षते शिक्षापदेष्वनेन · शीलभावना आख्यातां। एभिराकारस्तत्प्रातिमोक्षसम्वरशीलम्भावयितव्यं । एवं च भावितं सुभावितं भवतीति स एष एक: शीलसम्वरः षडाकारदेशनाप्रत्यु[5]पस्थानो वेदितव्यः ।
स चैष शीलसम्वरो दशभिराकारैविपन्नो 1. See SR, XXVI-XXVIII; Bodhi., p. 128, cp. also,
Vsm., I.153.