________________
नैष्क्रम्य भूमिः
अविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगु [5]णलक्षणश्च । यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसम्वरस्याख्यातं ॥ यत्पुनराह प्राति मोक्षसम्वरसंवृत इति । अनेन स्वभावलक्षणमाख्यातं । यत्पुनराह । आचारगोचरसम्पन्नः । अनेन परमुपनिधाय तथा समादत्तस्य प्रातिमोक्षसम्व[6] रस्य गुणलक्षणमाख्यातं । तथापि परे तामाचारगोचरसम्पदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः । प्रसन्नाश्च प्रसन्नाधिकारं कुर्व्वन्ति । न च मनान्सि (मनांसि ) प्रदूषयन्ति । नाव्वर्णं निश्चारयन्त्यन्यथा शीलसम्पन्नस्याचा रगोचरसम्पन्नस्यायं पराधिपतेयो गुण आनुशन्सा ( आनुशंसा ) च [ 7 ] भवेदेतद्विपर्ययेण वा ( चा ) स्य दोष एव भवेत् । यत्पुनराह । अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु [1] अनेना [S]ध्यात्माधिपतेयगुणानुशन्स - ( शंस) लक्षणमाख्यातं । तत्कस्य हेतोर्यदस्येद (म) मा - चारगोचरसम्पन्नः पराधिपतेयं गुणानुशसं ( शंसं ) 2B - 2 // प्रतिलभेत । अपि च । शीलं वि // [ 1 ] पातयित्वा ( विपात्य) तद्धेतुस्तत्प्रत्ययमपायेषूपपद्यते । अभव्यतावा (तांबा) अप्राप्तस्य प्राप्तये पूर्व्वत् । रणुमात्रेष्ववद्येषु भयदर्शी भवति । प्रागेवाधि मातेष्वसमादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतुस्तत्प्रत्ययं कायस्य भेदात् सुगतावुपपद्यते । भव्यो
यत्पुन
43