________________
श्रावकभूमौ नेप्क्रम्यभूमिः
आह[1]पूर्वमनेन प्रातिमोक्षसम्वरसमादानज्ञप्तिचतुर्थेन कर्मणा उपसम्पद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यं दिवसं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयेवोपगतं सर्वत्र ल (ब्धा)ध्यामीति (लप्स्यामीति) । आचार्योपाध्यायानामन्तिकाच्छु त्वा आलप्तकसं [2] लप्तकसंस्तुतकमप्रियकानां(णाम् ) अध्वरमासंगप्रातिमोक्षसूत्रोद्देशतः । . ततश्च तेन सर्वशिक्षासमादानात् प्रातिमोक्षसम्वरः प्रतिलब्धस्तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति । तानि तावन्नाध्यापद्यते । अध्यापन्नश्च यथाधर्म प्रतिकरोति । येषु पुनः शिक्षापदेषु कुशलो भवति । अ[3] व्युत्पन्नबुद्धिः । तानि पूर्व प्रतिज्ञासमादानेन समादत्तान्येतहि व्युत्पत्तिकौशल्यतया समाददाति। तेभ्यः पूर्वं यथापरिकीत्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत् । व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टः अन्यूनमधिकं शिक्षते। ते [षु गुरु'] स्थानीयव्यपदिष्टेषु शिक्षा [4]पदेषु अविपरीतग्राही च भवत्यर्थस्य व्यंजनस्य च । एवं समादाय शिक्षते शिक्षापदेष्वयं तावद्विभंगः शीलसम्वरस्य विस्तरकृतः॥
तत्र कतमः समासार्थः। तथायं समासार्थस्त्रिलक्षण एव । शीलस्कन्धः परिदीपितो भगवता, तद्यथा
1. Added by a separate hand in a footnote. ..