SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 28 श्रावकभूमौ अवतारभूमिः . होस्विदपरिमाणनियतः । अतुल्यनिश्चयः सर्वेषां कालो 2B-3// भवति । ||[1] न परिनिर्वाणाय आहो नैषां परिमाण नियतः कालो नापि तुल्यः सर्वेषाम्परिनिर्वाणाय [1] अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यं । केषांचिच्चिरेण, केषांचिच्चातिचिरेण, केषांचित्पुन: क्षिप्रमेव परिनिर्वाणं भवत्यपि तु यो गोत्रस्थः पुद्गलः [स'] सर्वक्षिप्रं परिनिर्वाति । सो [अ] वश्यं त्रीणि जन्मान्यभि [2] निवर्तयति । एकस्मिन्नवतरत्येकस्मिं (स्मिन् )परिमुच्यते । एकास्मि(स्मिन् ) जन्मनि परिपक्वो भवति । तत्रैव च परिनिर्वाति । नो चेत् परिनिर्वाति । सो[अ] वश्यं शैक्षकालं करोति । परञ्च सप्तभवानभिनिवर्तयतीदमुच्यते अवतारव्यवस्थानं । ___ अवतीर्णस्य पुद्गलस्य कतमानि लिंगानि । इह गोत्रस्थः पुद्गलः अवतीर्णमात्र एव यदा जन्मान्तर[3] परिवर्तेनापि स्मृतिसंप्रमोषं प्रतिलभते। आशास्तरि धर्मविनये वा सति सम्विद्यमाने [अ]पि दुराख्याते धर्मविनये स्वाख्याते [अ] प्यनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णं स्तुतिमानुशन्सं (शंसं) श्रुत्वा नावतरति । न प्रव्रजति । प्रव्रजितो[अ]प्यवतीर्णो 1. Added by us.. 2. cp. Satapatha Br., XI.2.1.1: त्रिह वै पुरुषो जायते, एतन्न्वेव मातुश्चाघि पितुश्चाने जायते, अथ यं यज्ञ उपनमति स यद्यजते तद्वितीयं जायते, अथ यत्र म्रियते यत्रनमग्नावभ्यादधाति, स यत्ततः सम्भवति तत्तृतीयं जायते ।।
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy