________________
अवतारभूमि:
29
लघु लघ्वेव प्रत्युदावर्त्तखे । प्रकृत्यैव चास्य तत्त्रारोचक: संति [4] ष्ठते । मधुनि जातस्येव च प्राणकस्य' शुक्तिप्रक्षिप्तस्य कामोपभोगिनो वा कर्थे (न्दे ? ) ण, स्यन्दनिकायाम्वा प्रक्षिप्तस्य यथापि तत्पूर्व्वकेणैव हेतुबलाधानेन स्वाख्यातस्य वा पुनर्धम्र्म्मविनयस्य नैव वर्ण [-] स्तुतिमानुशन्सं ( शंसं ) शृणोति वा कण्डति वा । अल्पमात्रमवरमात्रम्वा श्रुत्वा, अश्रुत्वा वा लघु लध्वेवावतरति प्रव्रज [5] ति [1] तथा प्रव्रजितश्चावतीर्णी न प्रत्युदावर्त्तते । प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते । मधुप्राणकस्य वा मधुनि', कामोपभोगतो वा प्रणीतायां कामचर्यायां । यथापि तत्पूर्व्वकेणापि हेतुबलाधानेन । इदं प्रथममवतीर्णस्य पुद्गलस्य लिङ्गम् ।।
पुनरपरमवतीर्णः पुद्गलः (लो) न तावद्विसंयुक्तो भवत्यपा [6] यक्षणगमनीयः क्लेशैः । न च पुनरक्षणेपूपपद्यते । अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता । सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते ।
अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ॥ स यदा. अधिमात्रेषु कुशलमूलेषु प्रतिष्ठो भवत्यनुपूर्वेण परिपाकगमनीयेषु तथा नाक्षणेषूपपद्यते [1]
1. cp. मधुविद्या in Br. Up., II. 5; Śatapatha Br., XIV. I.4. 13 Sq. (Madhu-brāhmana); see also XIV.5.5; vide, Uttaratantra, 1.93, 102-4, II.9.
2. MS. slightly damaged, letters illegible.