________________
अवतारभूमिः . 27 भवति । सो[अ]वतीर्णो मृदूनि कुशलमूलानि निश्रित्य, प्रतिष्ठाय, मध्यानि कुशलमूलानि प्रतिलभतेतैश्चात्मानम्परिपाचयति । स तथा परिपच्यमानो मध्यानि कुशलमूलानि [6] निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते । परिपक्वश्च भवति । सो [अ] धिमात्रकुशलमूलहेतुसमुदागतेना [s]त्मभावप्रतिलम्भेन यदा सम्भारञ्च समुदानयति । चित्तैकाग्रताञ्च स्पृशति । सम्यक्त्वञ्च न्याममवक्रामति । स्रोत आपत्तिफलम्वा, सकृदागामिफलं वा [अ] नागामिफलम्वा साक्षा[7]त्करोति । नो त्वग्रफलमहत्वं(त्त्वं) साक्षात्करोति। तदा निष्ठाप्रायोगिक' इत्युच्यते।
यदा तु सर्व्वक्लेशप्रहाणमर्हत्वं (त्त्वं) साक्षात्करोति । तदा निष्ठागतो भवति ।
सैषा सादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानः सन्दर्शिता भवति । तत्र गोत्रेणादि[:] श्रावकचर्यायाः सन्दर्शितः । निष्ठाया (निष्ठया) [8] पर्यवसानं । तदन्येन मध्यं संदर्शितं ।।
तत्रावतीर्णानां पुद्गलानां किं परिमाणनियत
स्तुल्यश्च सर्वेषां कालो भवति । परिनिर्वाणाया1. Wayman reads at, ibid, p. 65. 2. Wayman reads निष्ठ०, ibid, loc. cit. 3. Wayman suggests tufarfa, ibid, op. cit. 4. Wayman reads farosat, this reading seems to be more
correct, but the MS. reads forcorut.