________________
श्रावकभूमी अवतारभूमिः
मध्यकुशलमू[2]लसमन्वागतो गोत्रस्थः' पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य, यावदृष्टिमृनुं कृत्वा एकम्वा (कं वा), द्वे वा, सम्बहुलानि वा जन्मान्यभिनिवर्तयति। विशेषाये(य)ति । ___ य[:]परैति । नो चरममात्मभावं प्रतिलभते । यत्र स्थितः परिनिर्वात्ययमुच्यते। अधिमात्रकुशलमू [3]लसमन्वागतः पुद्गलः। ___ तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः। यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनी, सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते । न चाध्मायि (यी ? ) सर्वेण सर्वं सर्वथा प्रतिपद्यते। आस्रवक्षयमनुप्राप्नोति । न निष्ठां गच्छत्ययमुच्यते निष्ठाप्रा [4]योगिकः पुद्गलः । __तत्र निष्ठागतः पुद्गलः कतमः [1] यः सम्यगावेदितः सम्यगनुशिष्टः। यदुतास्रवक्षयाय तथा तथा प्रतिपद्यते । यत् सर्वेण सर्वं सर्वथा आस्रवक्षयमनुप्राप्नोति । कृतकृत्यो भवति परमशीतीभावप्राप्तः [1] अयमुच्यते निष्ठागतः पुद्गलः ।।
तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य, गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते । अवतीर्णश्च
1. It seems that it has been omitted in the MS. 2. MS. omits here तत्राधिमात्रकुशलमूलसमन्वागतः पुद्गलः कतमः ।