SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 16 श्रावकभूमी गोत्रभूमिः निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः । तत्रात्मसम्पदमुपादाय यावत्समाधिसन्निश्रयो [अ]यं । हीनः समुदागमप्रत्ययो वेदितव्यः । तत्र यः चतुःसत्यदेशनाववादाधिपतेयः परतो घोषः, यश्च योनिशो मनस्कारः । अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः । इदमुच्यते गोत्रव्यवस्थानं । गो[4] त्रस्थस्य पुद्गलस्य कतमानि लिंगानि । आह। यान्यपरिनिर्वाणधर्मकस्य लिंगानि। (आह'। यान्यपरिनिर्वाणधर्मकस्य लिंगानि ।) तविपर्ययेण गोत्रस्थस्य पुद्गलस्य लिंगानि वेदितव्यानि । .. कानि पुनरपरिनिर्वाणधर्मकलिंगानि यः समन्वागत: अपरिनिर्वाणधर्मकः । अपरिनिर्वाणधर्मको[s]यमिति विज्ञे [5]यः । बहून्यपरिनिर्वाणधर्मकलिगानि। (प्रदेशमात्रं ।) प्रदेशमात्रन्तु निर्देक्ष्यामि । इहापरिनिर्वाणधर्मस्य पुद्गलस्यादित एवाल. [ ] तृष्णा सर्वेण सर्व सर्वथा च सर्वबुधैराश्रयसन्निविष्टा अप्रहाणर्मिणी भवत्यनुत्पाद्या दूरागता प्रगाढसन्निविष्टा [ इदं]' । इदं प्रथम [म] गोत्रकस्थस्य पुद्गलस्य लिंगं ॥[6]पुनरपरमगोत्रस्थः पुद्गलः अनेकपर्यायेण संसारगुणान् विचित्रान् प्रभूतांश्च श्रुत्वा निर्वाणगुणांश्चानेकपर्यायेण विचित्रान् । प्रभूतांश्च 1. A repetition, due to scribe's mistake, may be omitted. 2. A separate hand adds this, illegible.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy