SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गोत्रभूमिः - 15 विचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति । स प्रीतेविरागादुपेक्षको विहरति स्मृतः संप्रजान[न् ] सुखं च कायेन प्रतिसम्वेदयते यत् । तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति [8] स सुखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तगमा(रस्तङ्गमा) ददुःखासुखमुपेक्षास्मृतिपरिशुद्ध चतुर्थं ध्यानमुपसम्पद्य विहरति । अयमुच्यते समाधि सन्निश्रयः [1] . 1B-2|| सो[अ]नया[s]नूपूर्व्या ॥ [1] उत्तरो त्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान् . प्रत्यग्रानात्मसम्पत्पूर्वान् समाधि '] संनिश्रयपर्यवसानान् समुदानयति । एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिज्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववा [2] दानुशासनी प्रतिलभते । एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय । य(त)त्पूविकायाश्च सम्यग्दृष्टेर्यया चत्वार्यार्यसत्यान्यभिसमागच्छति । विमुक्तिञ्च परिपूरयति। निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति । तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः । 1. Too dim and illegible.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy