________________
४२
क्षीरतरङ्गिण्यां
७।३।५३) कुत्वम् । वृक्षशुनोरन्यत्र-न्यञ्चुः स्वेदविन्दुः । उदङ्कोऽनुदके (३।३।१२३) साधुः, उदके तु ल्युट्-उदञ्चनी जलोद्धरणी। ऋत्विग्दधृग् (३।२।५६) इति क्विप्, उगिदचाम् (७।१।७०) इति नुम् -प्राङ् । घनि–पर्यङ्कः, पल्यङ्कः' । उदकमिति निपातितम् ।१८७ . १२०. वन्चु, चन्चु, तन्चु, त्वन्चु, म्र चु', म्लुचु गत्यर्थाः । वञ्चति । यङि अभ्यासस्य दीर्घ प्राप्ते नीग्वञ्चुन सुध्वंसु(७।४।८४) इति नीगागमः-वनीवच्यते। उदितो वा (७।२।५६) इति वेटवक्त्वा, वचित्वा, [वञ्चित्वा] वञ्चिलुच्यतश्च (१।२।२४) इति वा कित्त्वम्, वेट्त्वाद् यस्य विभाषा (७२।१५) इति निष्ठायां नेट -वक्तः । वञ्जितस्तु चुरादौ वञ्चु प्रलम्भने (१०।१४८) इत्यस्मात् । गधिवञ्च्योः प्रलम्भने (१।३।६६) तङानो बालं वञ्चयते । नेह-अहिं वञ्चयति । स्फायि (उ० २।१३) इति रक् वक्रम्, न्यङ्क्वादिः (द्र० ७।३१५३) । घनि वञ्चेर्गतौ (७।३।६३) इति कुत्वं
नास्ति-वञ्चं वञ्चन्ति वणिजः । चञ्चति । चञ्चा तृणपुरुषः । १५ चञ्चुस्त्रोटिः, चञ्चलश्चपलः। चाचलस्तु चले (धा० ११५६८)
रूपम् । तञ्चेस्तक्रम् । म्रोचति । मलिनं म्लोचति, मलिम्लुचश्चौरः । जस्तम्भुम्र चम्लचुनचुग्लचुग्लुञ्चुश्विभ्यश्च (३।११५८) इत्यङ् वाअम्रचत, अम्रोचीत्; अम्लुचत्, अम्लोचीत् ॥१८८-१९३॥
१२१. ग्रु चु ग्लुचु कुजु खुजु स्तेयकरणे। अग्र चत्, अग्रोचीत्, २० अग्लुचत्, अग्लोचीत् । घञ्-ग्लोचः, न क्वादेः (७।३।५६) कुत्वा
भावः ॥१९४-१९७॥ __ १२२. ग्लुन्चु षस्ज गतौ। न्यग्लुचत्, न्यग्लुञ्चीत्। सज्जति, सिसज्जिषति, सिसज्जयिषति । सज्जः सज्जितो हस्ती। क्वापि तङानौ-प्रकृतेगुणसम्मढा: सज्जन्ते गुणकर्मसु (गीता ३।२६),
१. परेश्च घाङ्कयो: (८।२।२२) इत्यनेन लत्वविकल्पः । २. 'उदकं च' इत्युणादिसूत्रेण (२।३६) इति शेषः।
३. इतोऽय 'म्रन्चु म्लुन्चु' इत्यधिको क्वचित् । प्रकृतसूत्रव्याख्यायामनयोरुदाहरणादर्शनान्नेमो स्वामिसम्मताविति स्पष्टम् । ४. द्र० काशिका ७।३।६३ ।
५. प्रवाह सायणः- 'अतोऽस्यात्मनेपदं दूषयन्तो वर्धमानक्षीरस्वाम्यादय: ३० एव दुष्टा:' (धा. वृ० पृ० ६७) । क्षीरस्वामिना त्वस्यात्मनेपदित्वमत्र स्वी.
कृतम्, न तु दूपितम् । अत: सायणीयो लेखश्चिन्त्यः ।