________________
भ्वादिगण: ( १ )
४३
सज्जमानमकार्येष्विति, (का० नीति, ४०४१) । चान्तो ऽयमिति शिवः ' - सश्चति ।। १६८, १६६ ॥
१२३. गुजि श्रव्यक्ते शब्दे । गुञ्जति । गुञ्जितम्, गुञ्जा । अनिदिदित्येके - गोजति । जुगोज ॥ २००॥
1
१२४. अर्च पूजायाम् । अर्चति, आनर्च | अर्चितः । अर्चा । यजयाचरुचप्रवचर्चश्च ( ७।३।६६ ) इति कुत्वाभावः, अच्यः । येषां मतेऽत्र ऋचेर् (धा० ६।२३) ग्रहणम्, ' तत्पक्षे अर्यः । श्रचशुचिहुसृपि ( उ० २।१०६ ) - इतीस् - श्रचिः । श्रर्च्यत इत्यर्कः " । चुरादी (१०।२३२) अर्चयति ॥ २०१ ॥
१०
१२५. म्लेछ श्रव्यक्तायां वाचि । म्लेच्छति । म्लेच्छनम्, म्लेच्छः । म्लेच्छो ह वा एष योऽपशब्दः, न म्लेच्छितवै, नापभाषितवे'। क्षुब्धस्वान्तध्वान्त (1२1१८ ) इत्यविस्पष्टे मिलष्टम् साधु, म्लेच्छित - मन्यत् ॥ २०२॥
१२६. लछ लाछि लक्षणे । लक्षणं चिह्नम् । लच्छति, लाञ्छति ।
लाञ्छनम् ॥२०३, २०४॥
१२७ वाछि इच्छायाम् । वाञ्छति । वाञ्छितम्, वाञ्छा ॥२०५॥
५
४. इदं काशिकाकारमतम् ( काशिका (७|३|६३ ) | मर्चतेग्रहणे 'प्रवचर्च' इत्यत्र कथं सन्धिरिति नोक्तं स्वामिना ।
१. 'प्रति नः सश्चतो नय' ( ऋ० १।४२।७ ) इत्यादिषु चान्तोऽपि दृश्यते । २. श्रयं महावैयाकरणः शिवस्वामी । उत्तरत्र ( ५ | १० ) अध्ययं ग्रन्थकृता स्मर्यते | शिवस्वामिनो विषये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे (पृष्ठ ६८२-६८४ च० सं०) विस्तरश उक्तम् । तत्तत्रैव द्रष्टव्यम् ।
२०
1
३. मतमिदं धातुवृत्ती (पृष्ठ ६७ ) पुरुषकारे ( पृष्ठ ६० ) चोद्धृतम् । स्वयं क्षीरस्वामिनापि 'गुज शब्दे' (६२७८ ) इत्यत्रायं पाठ उद्धृतः ।
५. घत्रि रूपम्, उ० ३।४० द्रष्टव्यम् ।
६. महाभाष्ये ( प्रा० १ पा० १० १) त्वेवं पठ्यते - ' तेऽसुरा हेलयो लय इति कुर्वन्तः परा बभूवुः । तस्माद् ब्राह्मणेन न म्लेच्छितवै, नापभाषितवै । म्लेच्छो ह वा एष यदपशब्द: ।'
७. म्लेच्छितम् = म्लेच्छाचरणम् ।
१५
२५