________________
६
भ्वादिगण: ( १ ) '
४१
(५।४।३८ ) क्रौञ्चः ।। १८४॥
५
११७. कुन्च गतिकौटिल्याल्पीभावयोः । गते : कौटिल्ये द्रव्याल्पत्वे च' । कुञ्चति, कुञ्चितम्। कुञ्चिका । कुक्' । कुञ्चेलि नलोप इष्टः' - संकोचकः । एवमपि न धातुलोप श्रार्धधातुके (११११४) इति निषेधः स्यात्, तस्मादेतत् कुचेः (१।११२) रूपम् । चान्द्रमुदित्त्वमतन्त्रम्* (च० धा० १।४७), यत् कात्यः सन्निपातपरिभाषायाः प्रयोजनमदात् उदुपधत्वम् श्रकित्त्वस्य निकुचिते ( महा० १|१| ३८ ) इति । यदि चायमुदित् स्यात्, इडागमोऽत्र न स्यात् ॥। १८५।।
११८. लुन्च प्रपनयने । श्रनुपयुक्तापासने । लुञ्चति । वञ्चि लुञ्च्युतश्च (१।२।२४ ) इति क्त्वा निष्ठा च वा कितौ - लुञ्चित्वा, १० लुचित्वा, लुञ्चितः लुचितः ॥ १६६ ॥
११. अन्च गतिपूजनयोः । अञ्चति । श्रानञ्च । अक्त्वा, अञ्चित्वा, उदितो वा ( ७/२/५६ ) इट् । श्रञ्चे: पूजायाम् (७|२| ५.३) इति क्त्वानिष्ठयोर्नित्यमिट् - प्रञ्चित्वा गुरून्, अञ्चितो राजा, अन्यत्र यस्य विभाषा ( ७।२।१५) इति निष्ठायां नेट् - समक्नौ शकुनेः १५ पादौ प्रञ्चोऽनपादाने ( ८|२|४८ ) इति नत्वम्, अपादाने तु -उदवतम् उदकं कूपात् । अनिदितां हल उपधायाः क्ङिति ( ६ । ४ । २४ ) इति नलोपो नाञ्चे: पूजायाम् ( ६ ४ ३० ) इति नास्ति - अञ्चिता गुरवः । नावञ्चे: ( उ० १।१७ ) इति कुः - न्यङ्कुः, न्यक्वादित्वात् ( द्र०
१. 'गतौ कोटिल्ये द्रव्याल्पत्वे चेति क्षीरस्वामी' ( पृ० ६३ ) इत्येवं धात्रु- २० वृत्तौ पाठ उपलभ्यते । २. क्विपि नलोपे रूपम् ।
३. प्रयोगप्राचुर्यदर्शनादिति शेषः ।
४. धातुवृत्ती 'अत एव उदित्पाठितो चन्द्रतरङ्गिणीकारी प्रत्युक्ती' इति पठ्यते (पृष्ठ ६४) । अत्र तरङ्गिणीकारस्योल्लेखोऽयुक्तः, क्षीरस्वामिना तूदित्पाठः प्रत्याख्यायानुदित्पाठस्य व्यवस्थापनात् । ५. अधात' पाठा० । २५ ६. यस्य विभाषा (७।२।१५) इति निषेधाद् इति शेष: । ७. कुरङ्गसदृशो विकटबहुविषाण: [ मृगविशेष: ] इत्यष्टाङ्गहृदयस्य हेमाद्रिटीकायां, सूत्रस्थान ३।५० । न्यङ्कोविकारो नयङ्कव इति पाणिनीया:, न्याङ्कव इत्यापिशला: । प्रत्र विशेष: 'संस्कृत व्याकरण शास्त्र का इतिहास' ग्रन्थस्य प्रथमाध्याये (पृष्ठ ३० च० सं०) द्रष्टव्य: ।
३०