________________
१०
क्षीरतरङ्गिण्यां
ईञ्जते । वोजेर्लोकिका' दवीजयत् ।।१८१।। ११३. उदात्ता अनुदात्तेतः ॥
[ सेट: परस्मैपदिनः ]
११४. शुच शोके । इतो व्रजान्ता: ( १११५४ ) द्वासप्ततिः सेटः 1 ५ परस्मैपदिनश्च । शोचति, शोचिता । शोकः । शोच्यमिति कुत्वं नेष्टं, ण्यन्तस्य वा रूपम् । जुचङ्क्रम्य ( ३।२।१५० ) इति युच् - शोचनः । इगुपधात् कि ( चान्द्र उ० १।५२ ) शुचिः । श्रचशुचि (उ० २। १०९) इतीस् - शोचिर्दीप्तिः ॥ १८२ ॥
१५
४०
११५. कुच शब्दे तारे' । कोचति, कुच सम्पर्चने (धा० सू० १। ५ε६) इत्यर्थभेदार्थे ज्वलादौ पठिष्यते । उदुपधाद् भावादिकर्मणोरन्यतरस्याम् (१।२।२१) इति कित्त्वं वा - संकुचितं, संकोचितम्
॥१८३॥
1
११६. क्रुन्च गतौ । क्रुञ्चति । क्रुङ् । क्रुञ्चा । श्रञ्चयुजिक्रुञ्चाम् ( ३।२।५६ ) इति निपातनान्नलोपाभावः । प्रज्ञादिभ्योऽण
१ वीजधातुः शास्त्रेष्वपठितोऽपि लोके लब्धप्रचार इत्यर्थ: । 'संवीजते ' 1 इति प्रयोगस्तु जाम्बवतीविजये दृश्यते । यथा - 'असी गिरेः शीतलकन्दरस्थ: परावतो मन्मथचाटुदक्ष:, घर्मालसाङ्गी मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्' इति ।
२. ' शोच्यमिति निपातनात्' इति पाठा० । शोच्यपदस्य कुत्राप्यनिपात२० नादपपाठोऽयम् । 'प्रशोच्यानन्वशोचस्त्वम्' ( गीता २।११ ) इत्यादिषु शोच्य - पदस्य दर्शनात् 'कुत्वं नेष्टम्' इत्येव युक्तः पाठः ।
३. इदं सूत्रं सर्वेषु पाणिनीयोणादिपाठेषु न दृश्यते । चान्द्रपाठेन सहेदं संवदति ।
४ कुच गताविति स्वामी (धा० वृ० पृ० ६३ ) । अत्र तु न तथा पाठ २५ उपलभ्यते ।
५. ज्वलादी (१।५७३ ) तु 'कुच सम्पर्चन कौटिल्य प्रतिष्टम्भविलेखनेषु' इति पठ्यते ।
६. कुन्चेत्यादिषु धातुस्वरूपप्रदर्शनार्थं परसवर्णमकृत्वा नकारनिर्देशः कृत इति बोध्यम् । प्रयोगावस्थायां तु परसवर्णं भवत्येव ।