________________
भ्वादिगणः (१)
३६
(द्र० ३।३।१६) भर्गो रुद्रः। ईदित्वाद (द्र० ७।२।१४) भृक्तः । भृष्ट भ्रस्जेः (६।४) रूपम्। अबीभृजत्, अबभर्जत् । ऋदुपधाच्चाक्लपिचतेः (३।१।११०) क्यप् भृज्यम् । अवश्यभय॑म् ण्य प्रावश्यके (७।३।६५) इति कुत्वाभावः । उणादौ भजूरभ्योषः ॥१७६, १७७॥
१११. एज़ भेज़ भ्राज़ दीप्तौ । एजते। एडि पररूपम् (६।१। ६४) प्रेजते । मा भवानेजिजत इत्यत्र नित्यत्वादन्तरङ्गत्वाच्च द्विवचने कृते ह्रस्वप्रसङ्गाभावाद् ऋदित्वं व्यर्थमिति न वाच्यम्, प्रोणज्ञापकात्। अनुपसर्गाल्लिम्पविन्द (३।१।१३८) इति शः-उदेजयः । एज कम्पने (१११४३) अस्मादेजति, तथा एजे: खश (३।२।२८) १० अङ्गमेजयः । भ्रेजते, भ्राजते, भ्राजभासभाषदीप (७४।३) इति । विक्ल्पेनात्वम् -अबभ्राजत् अबिभ्रजत् । भ्राज़-टुभ्राश (११५७०) इति वक्ष्यते, तस्य फणादित्वाद वेत्वाभ्यासलोपो प्रयोजनम्-भ्रेजे, बभ्राजे, तथा वश्चभ्रस्ज (८।३।४६) इति षः, राजसहचरितस्य यथा स्यात्-बाभ्राष्टि । अस्य तु बाभ्राक्ति । भ्राजभासधूवि (३।२। १५ १७७) इति क्विप्-विभ्राट् । नभ्राण्नपात् । (६।३।७५) इति प्रकृतिः । भुवश्च (३।२।१३८) इति चकारादिष्णु-भ्राजिष्णुः । रेज़ इति च चन्द्रः (च० धा० ११३६४)॥१७८-१८०॥
११२. ईज गतिकुन्सनयोः । ईजते, वीज्यते। ईजीति दुर्गः
समाधेयम्' इति (धा० प्र० पृ० २०)।
१. श्वीदितो निष्ठायाम् (७।२।१४) इत्यनेनेडागमाभाव इत्यर्थः । २. द्र० अमरक्षीरटीका (वैश्यवर्ग ४७) अभ्यूषपदव्याख्याने । ३. द्विवचनात् पूर्वं ह्रस्वत्वं प्रवर्तत इति शेष । ४. नायं विकल्पेनात्त्वं विधत्ते, तेन 'विकल्पेन ह्रस्वत्वम्' इति वाच्यम् । ५. मतमिदं सायणेन स्मृतम् (धा० वृ० पृष्ठ ६३)। ६. नको नकारस्य प्रकृतिभावः इत्यर्थः ।
७. यथोक्तं काशिकायाम् --'चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुना लोहितचन्दनेन' इति ।
८. प्रत्रोक्तं धातुवृत्ती-पत्र रेजिरपि क्वचित् पठ्यते, तदनार्षमिव (पृ० ६३)।
२५
३०