________________
क्षोरतरङ्गिन्यां तुदादी मुच्ल मोक्षणे (६।१३९) मुञ्चति, मुच्यते ॥१७०, १७१॥
१०६. मचि धारणोच्छ्रायपूजनेषु । मञ्चते । मञ्चः। उणादौ मञ्चुका खट्विका । मञ्चिकेति सभ्याः ।।१७२॥
१०७. पचि व्यक्तीकरणे । पञ्चते, प्रपञ्च्यते । अच-पञ्च । पञ्चिका' न्यासः । पञ्च । पञ्चालाः । पत्र-पङ्कः। चुरादौ पचि विस्तारवचने (१०।११६) प्रपञ्चयति । एरजण्यन्तानाम्' इत्यस्य प्रायिकत्वात् प्रपञ्च:, अस्य तु घत्रि कुत्वं स्यात् । दुर्गोऽदन्तमाह ।।१७३॥
१०८. ष्टुच प्रसादे । स्तोचते । घत्रि-स्तोकः ॥१७४।।
१०६. ऋज गतिस्थानार्जनोजनेषु। ऊर्जनम् प्राणनम् । अर्जते, उपार्जते, प्रानजे । अन्ये तूद्रिक्तोद्रेकार्थं हलादिमेनं मन्यन्ते ॥१७॥
११०. ऋजि भृजी भर्जने । भर्जनं पाकप्रकारः । ऋजते, पानजे । उणादौ (द्र० ४।२२) ऋजीकं पिष्टपचनम् । भर्जते । घत्र
१. पञ्चिका स्थाने पञ्जिका शब्दोऽपि प्रयुज्यते । १५ २. महाभाष्ये नैतादृशं किञ्चिद् वचनमुपलभ्यते । काशिकाकारोऽपि
'उञ्छादीनां च' (६।१।१६०) सूत्रवृत्ती 'एरजण्यण्तानाम् इति वचनाद्' इत्येवं स्मरति । मूलमस्य मृग्यम् ।
३. 'स्तौति स्तोकम्' इति क्षीरस्वाम्यमरटीकायाम् (पृष्ठ २४६) । निरुक्ते (२॥१) तु 'प्रथाप्याद्यन्तविपर्ययो भवति स्तोका रज्जुः सिकता तक्विति' इति २० ब्रुवता यास्केन त्रुतिर् क्षरणे इत्यस्मात् स्तोकपदनिष्पत्तिरुक्ता।
४. 'ऊर्जनेविति क्षीरस्वामिधनपालशाकटायनाः' (धातु० वृत्ति पृ० ६२)। तथैव पुरुषकारे (पृष्ठ ५८) ऽपि । प्रौढमनोरमायां (पृ० ५५६) 'क्षीरस्वामिप्रभृतयस्तु अर्जनेष्विति पेठुः' इति मुद्रितोऽपपाठो बोध्यः।
५. 'ऋज' स्थाने 'रिज' इत्यर्थः।
६. 'पानृजे (?, पानृजे) इति सम्मतातरङ्गिण्योः, तदसत् । नुम्विधावुपदेशिवद्वचनात् । अत एव काश्यपमेत्रैयादय: माममेव (ऋञांचक्र) सर्व उदाजह्न :' इति सायणः (धा० वृ० पृ० ६२) । मैत्रेयस्त्वाह - 'नुमागमनिमित्ताऽपि यस्य गुरुमत्ता ततोऽप्यां भवति, यथा इन्दाञ्चकार । केचित्तु
प्रानजे इति प्रत्युदाहरन्ति । तत्रेन्धिभवतिभ्यां च (१।२।६) इन्धिग्रहणेना३०. नित्य पाम इति ज्ञापितम् । तदनित्यमाम् इति न भवतीति यथाकथञ्चित