________________
भ्वादिगणः (१)
३७ शाकम् । असुन (द० उ० ६।४६) वर्चः-अशुचितेजसी ।। १६२।।
६६ षच सेचने । सचते, असीषिचत् । सितनिगमिसचिमसि (तु० उ० ११६६) इति तुन्-सक्तवः । षच समवाये (धा० स० ११२८४. व्याख्या) अस्मात्-सचति, सचिवः' ॥१६३॥
१००० लोच दर्शने । लोचते, अलुलोचत् । पालोचितः, लोच- ५ नम् । लोचकः-स्त्रीशिरोवस्त्रम्, शिरस्त्रञ्च । चुरादौ भाषार्थः (१०। २२३) आलोचयति, पालोचना ॥१६४।।
१०१. शच व्यक्तायां वाचि । तालव्यादिः । शचते । शचो॥१६५ १०२ श्वच विच गतौ । श्वचते, श्वञ्चते ॥१६६, १६७॥
१०३. कच बन्धने । कचते । कचः, काचः । काचरः। कच शब्द १० उदात्तत् - कचति । खच इति लौकिकोऽस्ति ॥१६८।।
१०४. कचि दीप्तिबन्धनयोः । कञ्चते, कञ्च्यते । काञ्चनम् । काञ्चिकम् । काञ्ची । प्रायः कचिरिदित् परस्त्वनिदिदित्येके ॥१६६
. १०५. मच मुचि कल्कने । कल्कनं दम्भः क्वथनञ्च । मचते । मुचेति चन्द्रः (तु० च० धा० १।३५६) मोचते । मुञ्चते", मुच्यते। १५
१. क्षीरतरङ्गिण्यां नायं क्वचित् साक्षात् पठ्यते । 'पप समवाये (१॥ २८४) इत्यस्य व्याख्याऽत्र द्रष्टव्या । सायणस्तु डुपचष् पाके (११७२२) इत्य. स्मादनन्तरं षच समवाये' इति पठति (घा० वृ० पृष्ठ २०२) ।
२. इतोऽग्रे 'शचि श्वचीति कोशिक:' इत्यधिक: क्वचित् पाठः । __३. अग्रिमेषु परस्मैपदिषु चान्तेषु धातुषु 'कच' धातुः क्षीरतरङ्गिण्यामन्यासु २० च धातुवृत्तिषु न पठ्यते।
४. धातुपाठेष्वपठितोऽपि लोके प्रयुज्यत इत्यर्थः । अपरे लौकिकशब्दस्य प्राकृत इत्यर्थः प्रतिजानते । तन्न, संस्कृतशब्दानां साधुत्वान्वाख्याने प्राकृतानामपभ्रशभूतानां शब्दानामन्वाख्यानस्य प्राप्तेरसंभवात् ।
५. सायणस्तु 'कचि काचि दीप्तिबन्धनयोः' इत्येवं पठति । मैत्रेयस्तु काचि २५ न पपाठ । काञ्चनं काञ्ची इत्युभयत्रान्येषामपि दृश्यते (६।३।१३७) इति दीर्घत्वमाह (धातुप्रदीप पृष्ठ १९)।
६. पाठोऽयं धातुवृत्तौ (पृष्ठ ६१) उद्धृतः। मैत्रेयस्तु कल्कनं दम्भ: शाठ्य चेत्याह (धा० प्र० पृष्ठ १९), दीक्षितस्तु कथने चेत्याह (सि० को०)।
७. उद्धृतमिदं पुरुषकारे (पृष्ठ ३६)।