________________
क्षीरतरङ्गिण्यां फक्कति । फक्किता । फक्कितम् निगीणम् । फक्का, फक्किका' ।११५
८४. तक हसने। सहन इति दुर्गः' । तकति ॥११६॥ ८५. तकि कृछ्जीवने । आतङ्कति । आतङ्कः ॥११७।।
८६. शुक गतौ । शोकति । के (द्र०३।३।१३५) शुकः । उणादौ ५ (२।२८) शुक्लशुक्रौ ॥११८॥
८७. बुक्क भाषणे । भषण इत्येके । बुक्कति, श्वा । बुक्का सुगन्धद्रव्यपिष्टम् ॥११॥
८८. खर्ख हसने । खर्खति । खर्खा भगास्यम् । खक्खेति दुर्गः । खक्खटो दृढः ॥१२०॥ १० पाणिनिना यौगिकत्वेन प्रतिज्ञाता पाचकयाजकादय: शब्दा अप्युत्तरकाले
रूढत्वेन स्वीकृताः । मतएव च कातन्त्रीयकृव्याख्यानारम्भे दुर्गसिंहेनोक्तम् - "वृक्षादिवदमी रूढा कृतिना न कृता कृतः । कात्यायनेन ते सृष्टा विबुद्धिप्रतिपत्तये" ॥ इति ॥ 'विबुद्धप्रतिबुद्धये' इति पाठभेद: ।
१. इदं क्वचिन्न। १५ २. पुरुषकारे (पृष्ठ ४७)तु "क्षीरस्वामी सहन इत्युक्त्वा हसन इति दुर्ग:" इत्येवं विपरीत मुद्धृतम् ।।
३. अस्तिनास्ति'..."आदत आतङ्क' इति तिबादिविभक्त्यन्तप्रतिरूपका[अव्यया इति शेष:] । हैमबृहद्वृत्ति ११३३३ । अंत्र लघुन्यासे-मा.
दङ्केति-पत्र तक कृच्छ्रजीवने इत्यस्य स्थाने दकुरिति पठन्ति । २० ४. अत्राह सायण:-'अस्मिन् (शुक-धातौ) हि सति शुकवल्कोल्का: (उ०
३।४२) इति शुभे: कनि भलोपे शुक शब्दनिपातनमनर्थकं स्यात्, इगुपधलक्षणेन कप्रत्ययेनैव सिद्धत्वात, तथा शुके रग्विधानेनापि शुक्रशब्दसिद्ध ऋज्रन्द्रादी शुचेनिपातनमनर्थकं स्यादित्यस्य पाठोऽनार्ष इव प्रतीयत' इति । यधुणादिपदसिद्धि प्रमाणीकृत्य धातूनामनार्षत्ववचनं युक्तं स्यात्तहि बहनामविगीतत्वेन पठितानां सायणेन स्वीकृतानां च धातूनामनार्षत्वं सिद्ध्येत । एवमेव सर्वैः प्राचीन: पाणिनीयरितरैश्च वैयाकरणर विगीतत्वेन म्वादी पठितस्य कृत्रः सायणेन प्रत्या. ख्यानं कृतम् (एतद्विषये तत्प्रकरण एव विस्तरेण वक्ष्यते) । तस्माच्चिन्त्योऽयं पन्थाः । ५. इदं पुरुषकारे (पृष्ठ ४६) उद्धृतम् ।
६. क्वचिन्न ।