________________
५
भ्वादिगणः (१)
८०. द्रा प्रायासे च। प्रायासः कदर्थनम्। कौशिकस्त्वायामे, दैर्घ्य विशिष्टायां क्रियायामित्याख्यत्' । काल्पनिके हि प्रकृति-प्रत्ययविभागे द्राधिमादयः कस्मिश्चिद् व्याकरणे धातोरेव' साधिताः, एवम् : नेदिष्ठादयो नेदत्यादे: । द्राघते, अदद्राघत् ।।११३।।
८१. श्लाघ कत्थने । कत्थनमुत्कर्षाख्यानम् । श्लाघह्न ङस्था (१॥ ४।३४) इति सम्प्रदानम् - चैत्राय श्लाघते । प्रशश्लाघत् ॥११४॥ ८२. उदात्ता अनुदात्तेतः।।
[सेटः परस्मैपदिनः] . ___८३. फक्क नीचैर्गतौ । नीचैर्गतिर्मन्दगमनम्, असद्व्यवहारो वा। इतः शिघ्यन्ताः (१।६५) पञ्चचत्वारिंशत् सेटः परस्मैपदिनश्च । १०
१. उद्धृतमिदं धातुवृत्तौ (पृष्ठ५७) प्रौढमनोरमायां (पृष्ठ ५५८) च । २. 'धातुष्वेव' पाठा० ।
३. नामानि सर्वाणि धातुजानीति नैरुक्तानां प्राचां वैयाकरणानां च मतम्। प्रौत्तरकालिकैस्तु वैयाकरणरुत्तरोत्तर नाम्नां धातुजत्वं विहाय तद्धितान्तत्वं स्वीकृतम् । यथा गोमयपदस्य 'गोम उपलेपने' इति चौरादिकाद् (१०३०१) १५ धातोनिष्पत्तो सम्यगर्थसिद्धौ सत्यामनि 'गोश्च पुरीषे' (४।३।१४५) इत्यनेन गोप्रातिपदिकात् निष्पत्तिरुक्ता, तथा सति माहिषगोमये लक्षणा कर्तव्या भवति (धातुजत्वे तु न लक्षणाया आवश्यकता) । एवं वध्यशब्दस्य कृदन्तत्वेऽपि वात्तिककारेण 'तद्धितो वा' (महा०३।१।६७ वा०) इत्यनेन तद्धितान्तत्वमपि प्रतिपादितम् । अपि च 'होमी' पदं पाणिनीयलक्षणेन होमोऽस्यास्तीत्येवं तद्धि- २० तान्तं प्रतीयते, परन्तु यास्केन 'सन्त्यल्पप्रयोगाः कृतोऽप्यकपदिकाः, यथा...... ....."दर्वी होमी' (नि० १११४) इत्यस्मिन् वाक्ये कृदन्तत्वं प्रतिपादितम् । अपि च काशकृत्स्नवातुपाठस्य कन्नडटीकायां कांचित् प्राचीनां टीकामश्रित्य बहूनां तद्धितप्रत्ययान्तत्वेन मन्यमानानां पदानां कृदन्तत्वं प्रतिपादितम् । यथा-द्युत धातो: द्योतनं द्योतनीयं द्युत्यं द्यौत्यम् (१।२६५, पृष्ठ ६४) एवं २५ रुचधातो: रोच्यम (११५६५, पृ०६४) मिदे: मेद्यं मैद्यम् (१।५६७, पृ० ६५), .:. घुटेः घुटयौं घौटयम्, रटे: रोटय रौटयम् (११५६९, ५७०; पृष्ठ ६५) चोरयते: चौर्यम् (81१, पृष्ठ १८७) इत्थमेव कस्मिचित् प्राचीने व्याकरणे द्वाधिमादयो द्राघतेः, नेदिष्ठादयश्च नेदत्यादेनिरुक्ताः स्युः । यथायथा हि लोके यौगिकार्थपरिज्ञानशक्तेरभाव: संजातस्तथातथा शब्दा रूढत्वमापन्नाः । अत एव ३०