________________
क्षोरतरङ्गिण्यां
- ७५. ककि श्वकि कि ढौक त्रौकृ ष्वक्क वस्क मस्क टिक टीक रघि लघि गत्यर्थाः । कङ्कते । कङ्कः । श्वकिस्तालव्यादिः । ढोकते, अडुढौकत् । टौक इति दुर्गः -टोकते। ष्वक्कते। सुब्धातुष्ठिवुष्व
क्कीनाम् प्रतिषेधात् सत्त्वाभावः। टेकते। टीकते, अटिटीकत् । ५ रचते । बाहुलकात रघुः । लङ्घते । लविंडोनलोपश्च (उ० १।२६) इति लघु । चुरादौ भासाथौं (१०।२२३) रङ्गयति, लङ्गयति
. ॥६२-१०३॥ : ७६ लघि भोजननिवृत्तौ च । चाद् गत्यर्थः-नवज्वरो लङ्घनीयः
॥१०४।। १० .७७. अघि वघि मघि गत्याक्षेपे। गत्याक्षेपो वेगगतिर्गमनारम्भो
वा' । अङ्घते। उणादावघम्', वज्रयादौ (द्र० उ० ४।६६) अज्रि. रित्येके ॥१०५-१०७॥ .: ७८. मघि केतवे च । कैतवं व्याजः । मङ्घते । श्वनुक्षन् (उ० १॥ १५६) इति मववन् मघवा इन्द्रः ॥१०८।।
७६. राघू लाघ द्रा ध्राघु सामर्थ्य । राघते, लाघते। निष्ठायामनुपसर्गात् फुल्लक्षीब (८।२।५५) इत्युल्लाघः नीरूक, [अन्यत्र] उल्लाघित इति स्यात् । द्राघिमन्ये न पेठुः ॥१०६-११२।।
२०
१. 'सुब्धातुष्ठिवुष्वस्कतीनां प्रतिषेधः' इति महाभाष्ये (६।१।६४) पठ्यते ।
२. 'गतो गमनारम्भे चेति स्वामी' इति धातुवृत्ती (पृष्ठ५७) पाठः। ३. स्वामिनामरटीकायां (पृष्ठ३६) 'न जहाति प्रघम्' इति व्याख्यातम् ।
४. उणादिषु 'श्वन्नुक्षन्' इत्यपि पठ्यते। ङमो ह्रस्वादचि (८।३।३२) इति इत्यत्र नित्यपदं 'नित्यहसितः, 'नित्यप्रज्वलितः' इतिवद् प्राभीक्षण्ये द्रष्टव्यम् (महा० ११॥ प्रा०१) । तेन नुडागमविरहितपाठोऽपि साधुः ।
५. मघवन् नान्तस्यैव 'मघवा' पदम् इति ज्ञापनाय प्रातिपदिकस्यापि निर्देशः । मघवान् इति तु मतुबन्तस्य भवति ।
६. क्षीरस्वामिना चास्य रूपाणि न निर्दिष्टानि । सायणः 'धाघृ तवर्गचतुर्थादिमपि केचित् पठन्ति' (घा. वृ० पृष्ठ ५७) इत्युक्तवान्, न तु स्वामीति ।
२५