________________
भ्वादिगणः (१)
३१
७०. वकि कौटिल्ये । वङ्कते । वङ्कः । वक़्यादौ (द्र० उ०४।६६) वङ्किः , पशुः । वक्रम् वञ्चेरक (द्र० उ० २।१३)वकेस्त्वयुक्तम्'
।'८६॥ ७१. मकि मण्डने । मङ्कते । मङ्कनः, मङ्कना वस्त्रम् । उणादी (उ० ११४०) मकुरः ॥७॥ . ७२. कक लौल्ये। लौल्यं सतृष्णत्वं चापल्यञ्च । ककते । काकः पृषोदरादिः (द्र० ६॥३।१०६) ॥८॥ __७३. कुक वृक पादाने । कोकते । के (द्र० ३।१।१३५) कुकः केकर: । संज्ञायां कोकश्चक्रवाकः । उणादौ (द्र० ११५४) कोकिलः। वकते । वृकः । णौ चङ्युपधाया ह्रस्वः (७ । ४ ! १) उऋत् (७। १० ४ । ७) वा अवीवृकत्, अववर्कत् । उणादौ वर्करः ।।८६-६०॥ .. ७४. चक तृप्तौ" । चकते । चकितः । कठिचकिभ्यामोरः (दश० उ० ८।२६) चकोरः । चकिरम्योरुच्चोपधायाः(उ० २११४) चुक्रम् । चक तृप्तौ प्रतिघाते च (११५३२) इति घटादौ मित्-चकयति।।६१
१. हस्तलेखेषु 'पशुः' इत्येव पठ्यते । २. नेदमुणादिसूत्रम्, अपि तु प्रकृतिप्रत्ययनिदर्शनमात्रम् । ३. इदिस्वादनुनासिकलोपाप्राप्तेः । ४. इतोऽग्रे 'मङ्कः' इति क्वचिदधिकं पठ्यते।। ...
५. अमरटीकायां क्षीरस्वामी 'मुकुर' इति पठति । तथा चाह प्रक्रियासर्वस्वकार:-प्रकारं मुकुरस्यादावुकारं दर्दुरस्य च। बभाण पाणिनिस्ती तु २०. व्यत्ययेनाह भोजराट् ॥ (प्रकियासर्वस्व उणादिप्रकरण ११४०)। ६. 'गर्व:' पाठा०।
७. 'प्रदने' पाठा० । ... ८. (द्र० अमरटीका २१६४६) 'ऐंचाताना' इति लोके प्रसिद्धः । ६. वेति न सूत्रावयव:, जिघ्रतेर्वा (७.४।६) इत्यतो वेत्यनुवर्तते।
१०. उज्ज्वलदत्तेन 'ऋछेररः' (उ० १११३१) सूत्रे बाहुलकाद् मन्दर- २५ वर्करादिशब्दा: साधिताः।
११. इदं सायणेनोद्धृतम् (धा० वृ० पृष्ठ ५६) । १२. चुक्रोऽम्लव्यञ्जनम् इत्यमरटीकायां (पृष्ठ ३४६) क्षीरस्वामी।