________________
२८
क्षीरतङ्गिण्या (८।४।३३) णत्वम्-प्रणिन्दिता, प्रनिन्दिता' । निन्दहिस (३।२। १४६) इति वु-निन्दकः ॥६३॥
५५. टुनदि समृद्धौ । नन्दति । ण्यन्ताल्ल्युः (द्र० ३।१।१३४) नन्दनः । शुद्धादच् -नन्दः । प्रज्ञादौ (द्र० ५।४।३८) नान्दः: नान्दी'। ५ इनि-नन्दी । ण्वुल (द्र० ३।१।१३३)-नन्दकः । ट्वितोऽथुच् (३।३।
८६)-नन्दथः । नजि च नन्दे: ( उ० ३।६८) ऋन् – ननान्दा भर्तृभगिनी', ननान्दरौ। रुहिनन्दिजीवि (उ० ३।१२७) इति झन् - नन्दयन्तः । अयामन्ताल्वाय्य (६।४।५५) इत्यय; णेरिनुच् (द्र० उ० ३।२६) नन्दयित्नुः । नन्दा तिथिः ॥६४॥
५६. चदि ह्लादने दीप्तौ च । चन्दति । रक् (द्र० उ० २।१३) चन्द्रः । चन्द्रिका । इषितिमिमदिमुदिखिदिभिदिछिदिमन्दिचन्दि (दश० उ० ८२६ क०) इति किरच--चन्दिरः। बहुलमन्यत्रापि (उ० २। ७८) युच् - चन्दनम् । चन्देरादेश्च छः(उ०४।२१८) असुश्च-छन्दो गायत्र्यादि । बाहुलकाद् अदन्तोऽपि स्वभावः छन्दानुवति ॥६५॥
१. तृचो रूपं लुटो वेति सन्दिग्धमिव । णिसि चुम्बने (क्षीर० २०१८) धातो 'प्राणिस्ते, प्रनिस्ते' इति लटि णत्वविकल्पदर्शनादिहापि लुटो रूपद्वयमनु. मीयते । 'वा निसनिक्षनिन्दाम्' (८१४३३) इत्यनेन कृत्येव णत्वविकल्पो भवति । पाख्यातप्रयोगे णत्वविकल्पपक्षो धातुवृत्ती. (पृष्ठ ५४) सम्यङ् निराकृतः। २. नान्दी=मङ्गलपाठः।
३, 'पत्युः स्वसा' पाठा०। ४. प्रकृतिप्रत्ययनिर्देशः । सूत्रं त्वेवं पठ्यते-स्तनि-हृषि-पुषि-गदि-मदिभ्यो रित्नुच्' ।
५ पाठोऽयं क्वचिन्नास्ति। .. ६. 'माह्लादने' पाठा० ।
७. 'कृतो बहुलम्' (३।३।११३ वा०) इति बहुलवचनेन । लीबिश-महो२५ दयेन 'उणादयो बहुलम्' (३।३।१) इत्यस्य संख्यानिर्दिष्टा, न सा युक्ता।
८. 'छन्दानुवर्ती' इति दीर्घपाठो युक्तः । तथा च तदीयामरटीकायां (पृष्ठ ३२८) पाठ:-'छन्दति छन्द: पद्ये गायत्र्यादौ, अभिलाषेऽकारान्तोऽपि, यथा छन्दानुवर्ती' । वस्तुतः छन्द:पदं छदि (छन्द) धातोरपठितादेव निष्पादनीयम,
यथामरटीकायां स्वामिना व्युत्पादितम् । दैवतब्राह्मणेऽपि छन्द:पदनिर्वचनं ३० 'छन्दांसि छन्दयन्तीति वा' (१॥३) इत्येवोक्तम् । एतेनापि छदि (छन्द)
२०