________________
. २७
भ्वादिगणः (१) ४६. कर्द कुत्सिते शब्दे। कर्दति । कलिकोरमः (उ० ४।८४) कर्दमः ॥५७॥ __५०. खर्द वन्दशूके। दन्दशूके गहितदशनयुक्तायां क्रियायाम, दशनमात्रे वाच्ये साधननिर्देशः साधनप्रधान-प्रयोग समवायार्थः । दन्तशूकपाठेऽपि दन्ताः शूका अस्येति स एवार्थः पर्यवस्यति । खर्दति ५
॥५॥ ५१. अति अदि बन्धने । अन्तति, प्रानन्त । अन्तकः । अन्दति, आनन्द । अन्दूदृन्भू (उ० १।६३) इत्यन्दूः पादशृङ्खला । प्रदिपाठोऽनार्षः । अन्ये प्रति इति बन्धने इति पेठुः - इन्ताञ्चकार ॥५६,६०॥
५२. इदि परमैश्वर्ये । परमैश्वर्यं परमेशनक्रिया । इन्दति । ऋत्रे- १० न्द्रानवज्र (उ० २।२८) इति रक-इन्द्रः ॥६१॥
५३. बिदि अवयवे । एकदेशगतक्रियायाम । बिन्दति । बिन्दुः, बाहुलकाद् उः । विन्दुरिच्छुः (३।२।१६६) इति वेत्तेर् (२।५७) निपातनम् ॥६२॥
५४. णिदि कुत्सायाम् । निन्दति । निन्दा । वा निसनिक्षनिन्दाम् . १. अमरटीकायां (पृष्ठ ६२) क्षीरस्वामिना 'कृणोति कर्दमः' इत्युक्तम । १५
२. साधनं कारकं तस्य निर्देशः । काशकृत्स्नधातुपाठव्याख्याने (१।२२) तु, 'दशने' इत्येव पाठः।
३. पाठोऽयं सायणेन धातुवृत्तौ (पृष्ठ ५२) स्मृतः। ४. शूक:= श्लक्ष्णतीक्ष्णानः ।
५. 'अत्र धनपाल:-तान्तं द्रविडा: पठन्ति, आर्यास्तु दान्तमिति ; उभय- २० मिति मैत्रेय-स्वामि-काश्यप-सम्मताकारादयः' इति धातुवृत्तो (पृष्ठ ५३) सायणः।
६. 'पादकटक:' पाठा०। ।
७. 'प्रते: पाठोनार्षः । अन्ये प्रदि इति बन्धने इति पेठुः, इन्ताञ्चकार' इति पुरुषकारे (पृष्ठ ७५) उदधृतः पाठः । क्षीरतरङ्गिण्यां तु 'अदि' पाठः, न २५ तु 'प्रते:'।
८. इदं क्वचिन्न । रन् इति तु युक्तम्, रक: कृरिन्प्रत्ययाभ्यां व्यवहितत्वात् । विशेषस्त्वत्र दशपाधुणादिवृत्ती इन्द्रपदटिप्पण्यां (पृष्ठ ३१६ टि. ५) द्रष्टव्यः ।